Sunday, July 19, 2026

चातुर्मास महात्म्यम्

चातुर्मास महात्म्यम्

सुप्ते देवे जगन्नाथे, आषाढ़े हरिवासरै।
चातुर्मास्यव्रतं कुर्यात्, सर्वपापप्रणाशनम् ॥१

हरौ शयानं देवेशे, यः करोति व्रतं नरः।
तस्य तुष्टो भवेद्विष्णुः, ददाति परमं पदम् ॥२॥

वेदेषु च पुराणेषु, शास्त्राणामवलोकने।
चातुर्मास्यसमो नास्ति, पावनो भुवि कश्चन ॥३॥

आहारं मैथुनं निद्रां, रागद्वेषमथापि च।
यः संयच्छति वर्षासु, स योगी नात्र संशयः ॥४॥

सात्त्विकं भोजनं कुर्यात्, अल्पं च वरवर्णिनि।
तामसं वर्जयेत्सर्वं, व्रती भूत्वा समाहितः ॥५॥

श्रावणे वर्जयेच्छाकं, दधि भाद्रपदे तथा।
दुग्धं च आश्विने मासि, कार्त्तिके द्विदलं त्यजेत् ॥६॥

भूमौ शयनं कुर्वीत, ब्रह्मचर्यपरायणः।
अक्षय्यं लभते पुण्यं, विष्णुलोकं स गच्छति ॥७॥

असत्यं न वदेत्क्वापि, क्रूरवादं च वर्जयेत्।
मौनव्रतं विशेषेण, कीर्तितं सर्वसिद्धिदम् ॥८॥

अहिंसा परमं धर्मं, मनसा वचसा गिरा।
पालयेत्सततं धीमान्, सर्वभूतहिते रतः ॥९॥

नित्यं स्नानं प्रकुर्वीत, प्रात:काले विशुद्धधीः।
गायत्रीं च जपेद्भक्त्या, संध्यावन्दनतत्परः ॥१०॥

दीपदानं प्रकुर्वीत, हरये चक्रपाणये।
अंधकारक्षयो यद्वत्, ज्ञानदीपस्तथा भवेत् ॥११॥

तुलसीं पूजयेन्नित्यं, प्रदक्षिणामथापि च।
यः करोति नरो भक्त्या, तस्य नश्यति पातकम् ॥१२॥

परनिन्दां न कुर्वीत, परवादं च वर्जयेत्।
आत्मवत्सर्वभूतेषु, पश्येन्नारायणं प्रभुम् ॥१३॥

अन्नदानं जलं दानं, वस्त्रदानं च कार्त्तिके।
यद्दत्तं चातुर्मास्येषु, तदक्षय्यं भवेद्भुवि ॥१४॥

विष्णुकीर्तनसक्तो यः, पुराणाश्रवणे रतः।
तस्य तिष्ठति गोविन्दः, हृदये नात्र संशयः ॥१५॥

एकभक्तेन नक्त वा, यः करोति व्रतं मुदा।
आरोग्यं लभते नित्यं, धनधान्यं च वर्धते ॥१६॥

कांस्यपात्रं त्यजेन्नित्यं, पलाशपत्रभोजनम्।
सर्वकामप्रदं प्रोक्तं, ऋषिसंघैः पुरातनैः ॥१७॥

कामं क्रोधं च लोभं च, मोहमदं तथापि च।
त्यक्त्वा भजति यः कृष्णं, स जीवन्मुक्त उच्यते ॥१८॥

प्रबोधिन्यां प्रबुद्धे तु, वासुदेवे जगद्गुरौ।
व्रतप्रतिष्ठां कुर्वीत, विप्रान्नारायणं स्मरन् ॥१९॥

एवं यः कुरुते भक्त्या, चातुर्मास्यव्रतं शुभम्।
इहामुत्र च सौख्यं च, लब्ध्वा याति हरेः पदम् ॥२०॥

॥ इति श्री गृहावधूत खेमेश्वर पुरी जी महाराज विरचितं चातुर्मास्य महात्म्य स्तोत्रं सम्पूर्णम् ॥


No comments:

Post a Comment

नया मंदिर स्टोरी ताला

भारत का एकलौता - अनोखा शिव मंदिर जहां रखवाली करते हैं प्रजापति दक्ष ,हाथ में लाठी लिए बने हैं द्वारपाल राजा बलि करते हैं सिरदान तो वहीं मंदि...