अष्टनाग स्तोत्रम् (खेमेश्वर पुरी विरचित)
अनन्तस्तार्क्ष्यानुजः ख्यातः शेषो विश्वस्य धारकः। प्रथमो नागराजोऽयं पातु नः सर्वदा मुदा ॥ १ ॥
द्वितीयो वासुकिर्नाम शिवस्य भुषणोत्तमः। समुद्रमथने योऽभूद् रज्जुः ख्यातिगतो भुवि ॥ २ ॥
तृतीयस्तक्षकः श्रीमान् तक्षकाख्यः महाबलः। परीक्षित्तक्षकः ख्यातः नागानां मध्ये विश्रुतम् ॥ ३ ॥
चतुर्थः कार्कोटकस्तु महाघोरपराक्रमः। नलस्य दंशने ख्यातश्चित्रगुप्तादिपूजितः ॥ ४ ॥
पञ्चमः पद्मनाभस्तु महापद्मश्च पञ्चमः। निधिपालकयोर्द्वन्द्वं कुबेरस्य प्रियं सदा ॥ ५ ॥
षष्ठो महापदः ख्यातः सुवर्णस्य च रक्षकः। नागानां कुलगोत्रेषु पूजितो वै दिशो दश ॥ ६ ॥
सप्तमो शङ्खनादस्तु शङ्खपालो महाबलः। पुण्यात्मनां च रक्षकश्च पवित्रः पापनाशनः ॥ ७ ॥
अष्टमो कुलकश्चैव गुलिकोऽपि महाबलः। अन्ते च संहती चैव सर्वनागाधिपः प्रभुः ॥ ८ ॥
अनन्तस्य प्रभावेण भूमिश्चैवातिधारिता। शेषनागस्य फणासु लोकान् स्थापिताः खलु ॥ ९ ॥
वासुकिः कण्ठभूषा च देवदेवस्य शङ्करः। येन दृष्टा महादेवाः तेन मुक्तिर्हि शाश्वती ॥ १० ॥
तक्षकस्य प्रभावेण विषवेगः सुदारुणः। स्मृतेन तक्षकस्यैव विषबाधा विनश्यति ॥ ११ ॥
कार्कोटकस्य च मन्त्रेण नागदोषो विनश्यति। स्मरणान्मुक्तिदातासौ सर्पभयात् प्रमुच्यते ॥ २२ ॥
पद्मनाभस्य नाम्ना तु धनान्युपलभ्यते। महापद्मस्य प्रभावात् सर्वसौभाग्यवर्धनम् ॥ १३ ॥
शङ्खपालस्य प्रभावात् पुण्यवृद्धिः प्रजायते। कुले तेषां न जायते कभीतिर्नागसम्भवा ॥ १४ ॥
कुलकस्य च स्मरणेन कुलं तिष्ठति शाश्वतम्। वंशवृद्धिः सदा तेषां ये पठन्ति इदं स्तोत्रकम् ॥ १५ ॥
अष्टनागाः प्रसीदन्तु सर्वकालं सुखावहाः। सर्पेभ्यो रक्षन्तु नित्यं विषभयं हरन्तु च ॥ १६ ॥
नागाः कुलस्य रक्षकाः भूमेश्र्वैवाधिदेवताः। ये पूजयन्ति नागान् वै तेषां गेहे वसेत् श्रिया ॥ १७ ॥
कालसर्पविधानानि ये कुर्वन्ति मुदा नराः। अष्टनागस्य जपमात्रेण शान्तिं प्राप्नुवन्ति ते ॥ १८ ॥
नागपञ्चम्यां वै काले ये पठेयुः इदं स्तोत्रम्। तेषां कुले नागबाधा कदापि न भवति ध्रुवम् ॥ १९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा ये च मानवाः। अष्टनागस्य पाठेन सर्वसिद्धिं लभन्ति ते ॥ २० ॥
य इदं पठते नित्यं प्रातरुत्थाय मानवः। तस्य गेहे न सर्पाणां भयं भवति कुत्रचित् ॥ २१ ॥
इदं स्तोत्रं महापुण्यमष्टनागस्य कीर्तितम्। भक्तिमद्भिः पठेद् यस्तु स याति परमां गतिम् ॥ २२ ॥
नागाः प्रीयन्तामत्र विप्रमुख्याः सुरादयः। सर्वे भवन्तु सुखिनः सर्वसन्तोषवर्धिताः ॥ २३ ॥
अष्टनागमिदं स्तोत्रं सम्पूर्णं सुखदं शुभम्। पठतां श्रुणुतां नॄणां सर्वसिद्धिप्रदायकम् ॥ २४ ॥
इदं स्तोत्रं खेमेश्वर पुरी गृहावधूत विरचितम् सम्पूर्णम् ॥
No comments:
Post a Comment